Friday, January 1, 2016

संस्कृत - एकाक्षर


।। एकाक्षरः ।।


दाददो दुद्ददुद्दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोsददः ।। ११४ ।।


Translation into simple English:
Sri Krishna, the giver of every boon, the scourge of the evil-minded, the purifier, the one whose arms can annihilate the wicked who cause sufferings to others, shot his pain-causing arrow at the enemy.

दाददो दुद्ददुद्दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोsददः ।।



दादद इति ।। दद्यते इति दादः दानम् । 'दद दाने' इति कर्मणि घञ् । दादं ददातीति दाददो दानप्रदः । 'आतोsनुपसर्गे कः' । दुद्ददुद्दादी दुत् उपतापः 'दुदु उपतापे' क्विप् । दुतमुपतापं ददति साधूनामिति दुद्दाः खलाः । पूर्ववत्कः । तेषां दुतमुपतापं ददत इति दुद्ददुद्दादी । 'दद दाने' इति धातोर्णिनिः । दादादः । दाः शुद्धिः । 'दैप् शोधने' क्विप् । तां ददत इति दादादः । 'दद दाने' कर्मण्यण् । दूददीददोः । दूः परितापः । 'दूङ् परितापे' क्विप् । तां ददतीति दूदा दुष्टाः । दीः क्षयः । 'दीङ् क्षये' क्विप् । तां दत्त इति दीदैा नाशदैा । उभयत्रातोsनुपसर्गे कः । दूदानां दीदैा दुष्टमर्दकैा दोषैा भुजैा यस्य सः दूददीददोः । दुष्टभञ्जकभुज इत्यर्थः । ददाददददः । ददन्ते इति ददाः दातारः न ददन्ते इति अददा अदातारः तेषां द्वयानामपि ददो दाता ददाददददः । सर्वत्र 'दद दाने' पचाद्यच् । अदन्तीत्यदा बकासुरपूतनाप्रभृतयः । अदः पचाद्यच् । तान् द्यति खण्डयति इति अददः । 'दोsवखण्डने' 'आतोsनुपसर्गे कः' एवंभूतो हरिः । दुतं ददातीति दुद्दः दुःखदः तस्मिन् दुद्दे शत्रैा । दुतंददत इति दुद्दातं शस्त्रम् । 'दद दाने' कर्मण्यण् । दददे ददैा । प्रयुक्तवानित्यर्थः । 'दद दाने' कर्तरि लिट् एकाक्षरानुप्रसोsलंकारः ।।

No comments:

Post a Comment